करारविन्देन पदारविन्दं, मुखारविन्दे विनिवेशयन्तम्।वटस्य-पत्रस्य पुटे शयानं, बालं मुकुन्दं मनसा स्मरामि॥ 1॥
श्रीकृष्ण! गोविन्द! हरे मुरारे! हे नाथ! नारायण! वासुदेव!।जिह्वे पिबस्वामृतमेतदेव, गोविन्द! दामोदर! माधवेति॥ 2॥
विक्रेतुकामा किल गोपकन्या, मुरारिपादार्पितचित्तवृतिः।दध्यादिकं मोहवशादवोचद्, गोविन्द! दामोदर! माधवेति॥ 3॥
गृहे - गृहे गोपवधू कदम्बाः सर्वे मिलीत्वा समवाप्य योगम्।पुण्यानि नामानि पठन्ति नित्यं, गोविन्द! दामोदर! माधवेति॥ 4॥
सुखंशयाना निलये निजेपि नामानि विष्णोः प्रवदन्ति मर्त्याः।ते निश्चितं तन्मयतां व्रजन्ति, गोविन्द! दामोदर! माधवेति॥ 5॥
जिह्वै सदैवं भज सुन्दराणि, नामानि कृष्णस्य मनोहराणि।समस्त भक्तार्तिविनाशनानि, गोविन्द! दामोदर! माधवेति॥ 6॥
सुखावसाने इदमेव सारं , दुःखावसाने इदमेव ज्ञेयम्।देहावसाने इदमेव जाप्य, गोविन्द! दामोदर! माधवेति॥ 7॥
श्रीकृष्ण राधावर गोकुलेश, गोपाल गोवर्धननाथ विष्णो।जिह्वे पिबस्वामृतमेतदेव, गोविन्द ! दामोदर ! माधवेति॥ 8॥
जिह्वे रसज्ञे मधुरप्रियात्व, सत्यं हितं त्वां परमं वदामि।आवर्णयेथा मधुराक्षराणि, गोविन्द! दामोदर! माधवेति॥ 9॥
त्वामेव याचे मम देहि जिह्वे, समागते दण्डधरे कृतान्ते।वक्तव्यमेवं मधुरं सुभक्त्या, गोविन्द! दामोदर! माधवेति॥ 10॥
कार्तिक व्रते श्रीराधाकृष्णयोरष्टकालीय लीला-कीर्तनम्।