Śrī Gauḍīya Gītiguccha
Kirtan

श्रीराधास्तोत्रम्

Brahmāṇḍa Purāṇa1 min read
Guru TattvaKrishnaRadhaRasaBhakti
Study with Shastra AIPDF
गृहे राधा वने राधा पृष्ठे पुरः स्थिता।यत्र यत्र स्थिता राधा राधैवाराध्यते मया॥१॥
जिह्वा राधा श्रुतौ राधा राधा नेत्रे हृदि स्थिता।सर्वांङ्गव्यापिनी राधा राधैवाराध्यते मया॥२॥
पूजा राधा जपो राधा राधिका चाभिवन्दने।स्मृतौ राधा शिरो राधा राधैवाराध्यते मया॥३॥
गाने राधा गुणे राधा राधिका भोजने गतौ।रात्रौ राधा दिवा राधा राधैवाराध्यते मया॥४॥
माधुर्ये मधुरा राधा महत्त्वे राधिका गुरुः।सौन्दर्ये सुन्दरी राधा राधैवाराध्यते मया॥५॥
राधा रससुधासिन्धु राधा सौभाग्यमञ्जरी।राधा व्रजाङ्गनामुख्या राधैवाराध्यते मया॥६॥
राधा पद्मानना पद्मा पद्मोद्भवसुपूजिता।पद्मेविवेचिता राधा राधैवाराध्यते मया॥७॥
राधाकृष्णात्मिका नित्यं कृष्णो राधात्मको ध्रुवम्।वृन्दावनेश्वरी राधा राधैवाराध्यते मया॥८॥
जिह्वाग्रे राधिकानाम नेत्राग्रे राधिकातनुः।कर्णे च राधिका–कीर्तिर्मानसे राधिका सदा॥९॥
कृष्णेन पठितं स्तोत्रं राधिका–प्रीतये परम्।यः पठेत्प्रयतो नित्यं राधाकृष्णान्तिगो भवेत्॥१०॥
आराधितमनाः कृष्णो राधाराधितमानसः।कृष्णाकृष्टमना राधा राधाकृष्णेति यः पठेत्॥११॥

Continue the Journey